श्री मंगलचंडिकास्तोत्रम्
——————————–
मन्त्र
ॐ ह्रीं श्रीं क्लीं सर्वपूज्ये देवि मङ्गलचण्डिके ऐं क्रूं फट् स्वाहा ।। ।। १ ।।
पूज्यः कल्पतरुश्चैव भक्तानां सर्वकामदः ।।
दशलक्षजपेनैव मन्त्रसिद्धिर्भवेन्नृणाम् ।। २ ।।
मन्त्रसिद्धिर्भवेद्यस्य स विष्णुः सर्वकामदः ।।
ध्यानं च श्रूयतां ब्रह्मन्वेदोक्तं सर्वसम्मतम् ।। ३ ।।
देवीं षोडशवर्षीयां रम्यां सुस्थिरयौवनाम् ।।
सर्वरूपगुणाढ्यां च कोमलांगीं मनोहराम् ।। ४ ।।
श्वेतचम्पकवर्णाभां चन्द्रकोटिसमप्रभाम् ।।
वह्निशुद्धांशुकाधानां रत्नभूषणभूषिताम् ।। ।। ५ ।।
बिभ्रतीं कबरीभारं मल्लिकामाल्यभूषितम्।।
बिम्बोष्ठीं सुदतीं शुद्धां शरत्पद्मनिभाननाम् ।। ६ ।।
ईषद्धास्यप्रसन्नास्यां सुनीलोत्पललोचनाम् ।।
जगद्धात्रीं च दात्रीं च सर्वेभ्यः सर्वसम्पदाम् ।। ७ ।।
संसारसागरे घोरे पोतरूपां वरां भजे ।। ८ ।।
देव्याश्च ध्यानमित्येवं स्तवनं श्रूयतां मुने ।।
प्रयतः सङ्कटग्रस्तो येन तुष्टाव शङ्करः ।। ९ ।।
शङ्कर उवाच ।।
रक्ष रक्ष जगन्मातर्देवि मंगलचण्डिके ।।
संहर्त्रि विपदां राशेर्हर्षमंगलकारिके ।। १० ।।
हर्षमंगलदक्षे च हर्षमंगलचण्डिके ।।
शुभे मंगलदक्षे च शुभमंगल चण्डिके ।। ११ ।।
मंगले मङ्गलार्हे च सर्वमंगलमंगले ।।
सतां मंगलदे देवि सर्वेषां मंगलालये ।। १२ ।।
पूज्या मंगलवारे च मंगलाभीष्टदैवते ।।
पूज्ये मंगलभूपस्य मनुवंशस्य सन्ततम् ।। १३ ।।
मंगलाधिष्ठातृदेवि मंगलानां च मंगले ।।
संसारे मंगलाधारे मोक्षमंगलदायिनि ।। १४ ।।
सारे च मंगलाधारे पारे त्वं सर्वकर्मणाम् ।।
प्रतिमंगलवारं च पूज्ये त्वं मंगलप्रदे ।। १५ ।।
स्तोत्रेणानेन शम्भुश्च स्तुत्वा मगलचण्डिकाम् ।।
प्रतिमंगलवारे च पूजां कृत्वा गतः शिवः ।। १६ ।।
देव्याश्च मंगलस्तोत्रं यः शृणोति समाहितः ।।
तन्मंगलं भवेच्छश्वन्न भवेत्तदमंगलम् ।। १७ ।।
ब्रह्मवैवर्तपुराणम् खण्डः २, (प्रकृतिखण्डः), अध्यायः ४४, श्लोक २०-३६)