13.1 C
Kathmandu
Saturday, January 11, 2025
tagDiv Newspaper Theme
HomeStotraratna malaश्रीगणपत्यथर्वशीर्षम्। Ganapati atharvashirsha

श्रीगणपत्यथर्वशीर्षम्। Ganapati atharvashirsha

श्री गणपत्यथर्वशीर्षम् ।

हरिः ॐ नमस्ते गणपतये । त्वमेव प्रत्यक्षं तत्वमसि । त्वमेव केवलं कर्तासि ।
त्वमेव केवलं धर्तासि । त्वमेव केवलं हर्तासि । त्वमेव सर्वं खल्विदं ब्रह्मासि
। त्वं साक्षादात्मासि नित्यम् । ऋतं वच्मि । सत्यं वच्मि । अव त्वं माम्
। अव वक्ताम् । अव श्रोतारम् । अव दातरम् । अव धातारम् । अवानूचानमव
शिष्यम् । अव पश्चात्तात् । अव पुरस्त्तात् । अवोत्तरात्तात् । अवदक्षिणात्तात् ।
अव चोध् र्वात्तात् । अवाधरात्तात् । सर्वतो मां पाहि, पाहि समन्तात् । त्वं वाङ्
मयस्त्वं चिन्मयः । त्वमानन्दमयस्त्वं ब्रह्ममयः । त्वं सच्चिदानन्दाद्वितीयोऽसि
। त्वं प्रत्यक्षं ब्रह्मासि । त्वं ज्ञानमयो विज्ञानमयोऽसि । सर्वं जगदिदं त्वत्तो
जायते । सर्वं जगदिदं त्वत्तत्तिष्ठति । सर्वं जगदिदं त्वयि लयमेष्यति । सर्वं
जगदिदं त्वयि प्रत्येति । त्वं भूमिरापोऽनलोऽनिलो नभः । त्वं चत्वारि वाक्
पदानि । त्वं गुणत्रयातीतः । त्वं कालत्रयातीतः । त्वं देहत्रयातीतः । त्वं
कालत्रयातीतः । त्वं मूलाधारस्थितोऽसि नित्यम् । त्वं शक्तित्रयात्मकः ।
त्वां योगिनो ध्यायन्ति नित्यम् । त्वं ब्रह्मा त्वं विष्णुस्त्वंरुद्रस्त्वमिन्द्रस्त्वमग्निस्त्वं
वायुस्त्वं सूर्यस्त्वं चन्द्रमास्त्वं ब्रह्म भुर्भूवः सुवरोम् । गणादिं पूर्वमुच्चार्य
वर्णादिं तदनन्तरम् । अनुस्वारः परतरः । अर्धेन्दुलसितम् । तारेण रुद्धम् ।
एतत्तव मुनस्वरूपम् । गकारः पूर्वरूपम् । अकारो मध्यमरूपम् । अनुस्वारश्चान्त्यरूपम् ।
विन्दुरुत्तररूपम् । नादः सन्धानम् । संहिता सन्धिः ।
सैषा गणेशविद्या । गणक ऋषिः । निचृदगायत्री छन्दः । गणपतिर्देवता । ॐ
गं गणपतये नमः । एकादन्ताय विद्महे वक्रतुण्डाय धीमहि, तन्नो दन्ती प्रचो
दयात् । एकदन्तं चतुर्हस्तं पशमङ्कुशधारिणम् । अभयं वरदं हस्तैर्बिब्भ्राणं मूषकध्वजम् ।
रक्तं लम्बोदरं शूर्पकर्णकं रक्तवाससम् । रक्तगन्धानुलिप्ताङ्कं रक्तपुष्पैः सुपूजितम् ।
भक्तानुकम्पिनं देवं जगत्कारणमच्युतम् । आर्विभूतं च सृष्ट्यादौ प्रकृतेः पुरुषात्परम् ।
एवं ध्यायति यो नित्यं स योगी योगिनां वरः ।
नमो व्रातपतये नमो गणपतये नमः प्रमथपतये नमस्तेऽस्तु लम्बोदरायैकदन्ताय
विघ्नविनाशिने शिवसुताय श्रीवदरमूर्तये नमः ।

।। इति ऋग्वेदोक्तगणपत्यार्थवशीर्षसूक्तम् सम्पूर्णम् ।।

Ganesh Photo
Ganesh Image

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments

कारंडे सोमनाथ on Garud Puran Pdf
उपेन्द्र प्रसाद भट्टराई on जनैपूर्णिमाको रहस्य। About Janaipurnima
error: Content is protected !!