ऊध्र्ववक्त्रध्यानम्
ॐ व्यक्ताव्यक्तगुणोत्तरं सुवदनं षड्विंशतŒवाधिकं
तस्मादुत्तरतŒवमक्षयमिति ध्येयं सदा योगिभिः ।
वन्दे तामसवर्जितेन मनसा सूक्ष्मातिसूक्ष्मं परं
शान्तं पञ्चममीश्वरस्य वदनं खंव्यापि तेजोमयं ।।
पूर्ववक्त्रध्यानम्
ॐ संवर्ताग्नितडित्प्रतप्तकनकप्रस्पद्र्धितेजोद्ररुणं
गम्भीरस्मृतिनिःसृतोग्रदशनप्रोद्भासिताम्राधरम् ।
बालेन्दुद्युतिलोलपिङ्कलजटाभारप्रबद्धोरगं
वन्दे सिद्धसुरासुरेन्द्रनमितं पूर्वं मुखं शूलिनः ।।
पश्चिमवक्त्रध्यानम्
ॐ प्रालेयामलबिन्दुवmुन्दधवलं गोक्षीरफेनप्रभं
भस्माभ्यङ्कमनङ्कदेहदहनं ज्वालावलीलोचनम् ।
ब्रहृमेन्द्रादिमरुद्गणैःस्तुतिपरैरभ्यर्चितं योगिभि–
र्वन्देहं सकलं कलङ्गरहितं स्थाणोर्मुखं पश्चिमम् ।।
दक्षिणवक्त्रध्यानम्
ॐ कालाभ्रभ्रमराञ्जनाचलनिभं व्यावृत्तपिङ्केक्षणं
खण्डेन्दुद्वयमिश्रितांशुदशनप्रोद्भिन्नदंष्ट्राङ्कुरम् ।
सर्पप्रोतकपालशुक्तिसकलव्याकीर्णसच्छेखरं
वन्दे दक्षिणमीश्वरस्य कुटिलं भ्रूभङ्करौद्रं मुखम् ‘।।
उत्तरवक्त्रध्यानम्
ॐ गौरं वmुङ्कुमपिङ्कलं सुतिलकं व्यापाण्डुगण्डस्थलं
भ्रुविक्षेपकटाक्षवीक्षणलसत्संसक्तकर्णोत्पलम् ।
स्निग्धं बिम्बफलाधरं प्रहसितं नीलालकालङ्कृतं
वन्दे पूर्णशशाङ्गमण्डलनिभं वक्त्रं हरस्योत्तरम् ।।